कोविड–19 मध्ये छात्राणां संघर्षः

    कोविड–19 मध्ये छात्राणां संघर्षः

    कोरोना महामारी 21 वी शताब्दयाः भयावहः महामारी रूपेण विश्वस्य समीपं उपस्थितः अभवत्। काराना महामारी केवलं भारतस्य अपितु समग्रविश्वस्य अस्ति। अस्मात् कारणात् समग्र देश जन-जीवनेभ्यः संपूर्ण प्रतिबंधस्य नियमः प्रचलत्।। भारतस्य न केवल अपितु अन्येषु देशेषु विद्यालये, महाविद्यालये च प्रतिबंधितः आसन् । इयं प्रक्रियायाः पालनं सर्वेषां कृते। अनिवार्य भवेत् इति सर्वकारस्य आदेश आसीत् । अस्य पालन सर्वेषां कृते अनिवार्यः अस्ति।

    कोरोना महामारी कारणात् जन-जीवनेभ्यः अक्रांता अभवत् । अस्मात् कारणात् सर्वकार पूर्ण प्रतिबंध: नियमस अचालयत्। येन कारणेन छात्राणां जीवने पठन-पाठन प्रभावित अभवत्। विद्यालये, महाविद्यालयेषु ऑनलाइन शिक्षायाः कार्यक्रम अचालयत्। येन छात्राणां पाठन अवरुद्ध न भवेत्।

    पाठन प्रक्रिया एतादृशी भवेत् यत् पाठनम् अवरुद्धः न अपितु सम्यक रूपेण भवेत्। ऑनलाइन शिक्षायाः छात्रस्य जीवन प्रभावितम् अभवत्। लघु बालकानाम् कृते इयं प्रक्रिया अतिकठिनम् आसीत्। इंटरनेट सेवायाः सर्वत्र समुपलब्धः न आसीत्। नगरेषु महानगरेषु शिक्षकाः स्वगृहे निवसतः बालकाना छात्राणां च पाठनम् अकार्यत। येन लघु बालकानाम् नेत्र प्रभावित अभवन् ।

    अस्य प्रक्रियाः केचन छात्राः एव सम्यक रुपेण पाठनम् अकरोत्। विद्यालयस्य छात्राः अस्य समस्या समाधान कर्तुम् नः शक्नुवन्ति। ऑनलाइन प्रक्रिया माध्यमेन पाठन महानगरेषु सफल अभवत् किन्तु दुर्गम क्षेत्रे सुविधा न अस्ति। अस्मात् कारणात् अपि निवसतः छात्राणा पाठन अवरुद्धः अभवत्।


                                                                            प्रद्युम्न

Pradyumna

                                                                                                                      Photos by The Sanskritam



Post a Comment

0 Comments